|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.140. अध्यायः 140
Mahabharata - Vana Parva - Chapter Topics
रैभ्ययाज्येन बृहद्द्युम्नेन सत्रे सहायत्वेन वृतयोरर्वावसुपरावस्वोस्तदर्थं गमनम् ॥ 1 ॥ भार्यादिदृक्षया पुनराश्रमं गतेन परावसुना रात्रौ मृगभ्रमेण कृष्णाजिनसंवीतस्य रैभ्यस्य हननम् ॥ 2 ॥ परावसुचोदनया बृहद्द्युम्नेन ब्रह्महत्याग्रस्त इति प्रोत्सार्यमाणेनार्वावसुना तपःप्रसादितसूर्यादिदेवेभ्यो रैभ्यभरद्वाजयवक्रीतोत्थानादिवरग्रहणम् ॥ 3 ॥ देवैर्यवक्रीतदुःखस्य वनोपदेशं वेदाभ्यासफलत्वकथनपूर्वकं रैभ्यादीनामुज्जीवनम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-140-0x(2222)(21211)
एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः।
सत्रं तेने महाभागो रैभ्ययाज्यः प्रतापवान् ॥ 3-140-1(21212)
तेन रैभ्यस्य वै पुत्रावर्वावसुपरासू।
वृतौ सहायौ सत्रार्थं बृहद्द्युम्नेन धीमता ॥ 3-140-2(21213)
तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः।
आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः ॥ 3-140-3(21214)
अथावलोककोऽगच्छद्गृहानकः परावसुः।
कृष्णाजिनेन संवीतं ददर्श पितरं वने ॥ 3-140-4(21215)
जघन्यरात्रे निद्रान्धः सावशेषे तमस्यापि।
चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् ॥ 3-140-5(21216)
मृगं तु मन्यमानेन पिता वै तेन हिंसितः।
अकामयानेन तदा शरीरत्राणमिच्छता ॥ 3-140-6(21217)
तस्य स प्रेतकार्याणि कृत्वा सर्वाणि भारत।
पुनरागम्य तत्सत्रमब्रवीद्धातरं वचः ॥ 3-140-7(21218)
इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन।
मया च हिंसितस्तातो मन्यमानेन वै मृगम् ॥ 3-140-8(21219)
सोऽस्मदर्थे व्रतं तात चर त्वं ब्रह्मघातिनाम्।
समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने ॥ 3-140-9(21220)
अर्वावसुरुवाच। 3-140-10x(2223)
करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः।
ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः ॥ 3-140-10(21221)
लोमश उवाच। 3-140-11x(2224)
स तस्यब्रह्महत्यायाः पारं गत्वा युधिष्ठिर।
अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः ॥ 3-140-11(21222)
ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम्।
बृहद्द्युम्नमुवाचेदं वचनं हर्षगद्गदम् ॥ 3-140-12(21223)
एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति।
ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वामसंशयम् ॥ 3-140-13(21224)
लोमश उवाच। 3-140-14x(2225)
तच्छ्रुत्वैव तदा राजा प्रेष्यानाह स विट्पते।
प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा।
न मया ब्रह्महत्येयं कृतेत्याह पुनःपुनः ॥ 3-140-14(21225)
उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महा इति भारत।
नैवस्म प्रतिजानामि ब्र्हमहत्यां स्वयंकृताम्।
मम भ्रात्रा कृतमिदं मया स परिमोक्षितः ॥ 3-140-15(21226)
स तथा प्रवदन्क्रोधात्तैश्च प्रेष्यैः प्रभाषितः।
तूष्णीं जगाम ब्रह्मर्षिर्वनमेव महातपाः ॥ 3-140-16(21227)
उग्रं तपः समास्थाय दिवाकरमथाश्रितः।
रहस्यवेदं कृतवान्सूर्यस्य द्विजसत्तमः ॥ 3-140-17(21228)
मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः ॥ 3-140-19aप्रीतास्तस्याभवन्देवाः कर्मणाऽर्वावसोर्नृप।
तं ते प्रवरयामासुर्निरासुश्च परावसुम् ॥ 3-140-18(21229)
ततो देवा वरं तस्मै ददुरग्निपुरोगमाः ॥ 3-140-20(21230)
स चापि वरयामास पितुरुत्थानमात्मनः।
अनागस्त्वं ततो भ्रातुः पितुश्चास्मरणं वधे ॥ 3-140-21(21231)
भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः।
प्रतिष्ठां चापि वेदस्य सौरस्य द्विजसत्तमः ॥ 3-140-22(21232)
एवमस्त्विति तं देवाः प्रोचुश्चापि वरान्ददुः।
ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर ॥ 3-140-23(21233)
अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान्।
समधीतं मया ब्रह्म व्रतानि चरितानि च ॥ 3-140-24(21234)
कथं च रैभ्यः शक्तो मामदीयानं तपस्विनम्।
तथायुक्तेन विधिना निहन्तुममरोत्तमाः ॥ 3-140-25(21235)
देवा ऊचुः। 3-140-26x(2226)
मैवं कृथा यवक्रीत यथा वदसि वै मुने।
ऋते गुरुमधीता हि स्वयं वेदास्त्वया पुरा ॥ 3-140-26(21236)
अनन तु गुरूनदुःखात्तोषयित्वाऽऽत्मक्रमणा।
कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् ॥ 3-140-27(21237)
लोमश उवाच। 3-140-28x(2227)
यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः।
संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् ॥ 3-140-28(21238)
`ततो वै स यवक्रीतो ब्रह्मचर्यं चचार ह।
अष्टादश च वर्षाणि त्रिंशतं च युधिष्ठिर' ॥ 3-140-29(21239)
आस्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः।
अत्रोष्य राजशार्दूल सर्वपापैः प्रभोक्ष्यसे ॥ 3-140-30(21240)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-140-4 अवलोककः अवलोकनार्थी। गृहान्भार्याम् ॥ 3-140-5 जघानरात्राविति ध. पाठः ॥ 3-140-9 चर त्वं ब्रह्मरक्षणे इति ध. पाठः ॥ 3-140-14 विट्पते हे प्रजाधीश ॥ 3-140-16 प्रभाषितो मिथ्यावाद्यसीत्यधिक्षिप्तः ॥ 3-140-17 रहस्यवेदं सूर्यमन्त्रप्रकाशकं वेदम् ॥ 3-140-18 मूर्तिमान्सूर्यस्तं द्विजं ददर्शं आत्मानं दर्शयामास ॥ 3-140-19 तं देवाः प्रकर्षेण वरयामासुः। निरासुर्निराचक्रुर्यज्ञादिति शेषः ॥ 3-140-22 प्रतिष्ठां संप्रदायप्रवृत्तिम्। सौरस्य सूर्यप्रकाशकस्य ॥ 3-140-24 समधीतं साम्यक्प्राप्तम्। ब्रह्म वेदः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|